ALL राजनीति स्पोर्ट्स आरएसएस न्यूज धार्मिक कोरोना वायरस योग व्यायाम आसान / लाइफ स्टाइल / खान पान ताजा न्यूज़ देश - विदेश कहानी ,कविता ,महापुरुषों की जीवनियां प्रदेश न्यूज
भारततस्य महाख्यान नम्-
December 5, 2019 • जनस्वामी दर्पण • धार्मिक
भारतस्य महाख्यानम् – अनन्तत्वस्य परमसंरक्षणम्
Ritam aap
 
 
 

कस्यापि देशस्य समृद्धये तद्देशीयानाम् एकच्छत्रम् ऐक्यम् आवश्यकम्। ध्वज-गीत-मुद्रादीनि चिह्नानि सन्ति एव। किन्तु आवश्यकता अस्ति कस्यचित् अमूर्तध्येयस्य, भविष्यतः चित्रस्य, यस्य प्राप्तये देशबान्धवाः यतेयुः।
अमेरिकीयसङ्घराज्यस्य राष्ट्रियस्वभावे एव 'अमेरिकीय-लोकोत्तरता' दृढतया निहिता। चीनानाम् अस्तित्वविषयः 'त्यांक्स्या' अथवा स्वर्गशासनम् इत्यनेन सिद्धान्तेन वर्ण्यते। आमातेरासोः राजवंशः जापानीयानां एकसूत्रीकरणाय अलम्। आङ्ग्लाः तेषां राजतन्त्रात् ऊर्जां प्राप्नुवन्ति।

आस्वातन्त्र्यात् भारतीयाः स्वस्य महाख्यानात् वञ्चिताः। सप्ततिवर्षेभ्यः लब्धस्वातन्त्र्यैः अस्माभिः, स्वस्य अस्तित्वहेतुः न व्याख्यातः। किमर्थं भारतस्य अस्तित्वम्? विश्वेऽस्मिन् भारतस्य किं स्थानम्? किंप्रयोजनाः भारतीयाः? एतेषां प्रश्नानाम् उत्तराणि अस्माभिः अन्वेष्टव्यानि, यदि जगति राजकीयं प्रभुत्वम् इच्छामः।

अस्तित्वविषयकान् एतान् प्रश्नान् अस्मिन् लेखे उत्तरितुं प्रयतिष्ये। अन्येऽपि बहवः बुद्धिधुरन्धराः सन्ति एव, ये एतेषां प्रश्नानां मदपेक्षया साधुतराणि उत्तराणि दद्युः। तथापि यथाबुद्धि, अतीव विनयेन एतं प्रयासम् आचष्टे, यत् सुदैवात् अनया प्रेरणया अन्येऽपि प्राज्ञाः एतेषु विषयेषु मतिं कुर्युः।

महाख्यानम्, स्वाभाविकतया, राष्ट्रस्य अस्तित्वस्य हेतुं स्पष्टतया विशदं कुर्यात्। राष्ट्रस्य प्राचीनतमः,न्यूनपक्षे आधुनिकपुनर्रचनायाः परं घटितः वा इतिहासः, सुदूरभविष्यचित्रैः सह, महाख्याने समाविशेत्।

भारतस्य सन्दर्भे अत्र किञ्चित् कष्टं यतो हि उदारमतीयानां भारतीयसङ्घराज्यस्य कल्पना यदि अनुमन्यते, तर्हि वयं मात्र सप्ततिवर्षीयाः स्मः। नैव च सप्ततिवर्षीयस्य राष्ट्रस्य इतिहासः सम्भवति। नात्र तर्हि आश्चर्यं यत् उदारमतीयैः मार्क्सवादिभिश्च कुण्ठितेषु देशस्य बुद्धिमार्गेषु न कीदृशमपि आख्यानरचनं समभवत्। अतः, भारतस्य महाख्यानं निर्मातुकामैः अस्माभिः उदारमतीयानां दृष्टिकोणः सर्वथा त्याज्यः।

अस्माकं सुदैवात्, अन्योऽपि पर्यायः अस्माकं समीपे सरलतया वर्तते। तन्नाम भारतस्य हिन्दुत्व-प्रतिबोधः। हिन्दुत्ववादिनां मतानुसारं भारतं नाम समस्तहिन्दूनां राजकीयदृष्ट्या एकच्छत्रीकरणम्। अतः भारतराज्यं तेषां मतेन भारतीयसभ्यतायाः संरक्षकं, तस्य आद्यकर्त्तव्यं नाम हिन्दूनां नैरन्तर्यस्य सुनिश्चितिः। इदं दर्शनं निश्चयेन भारतस्य महाख्यानस्य आधारभूतं भवितुम् अर्हति।

आदौ सद्यःकालीनां स्थितिं पश्यामः। जगति द्वाभ्याम् अब्राह्ममतानां वर्चस्वं विद्यते – ख्रैस्तमतं महामदीयं च। अन्यदपि एकम् अब्राह्ममतं वर्तते यत् स्वस्थाने महत् शक्तिमत् अस्ति – यहूदाः। एते सर्वेऽपि एकस्यैव मूलसूत्रस्य भिन्नाः आवृत्तयः – मृषेश्वरवादः। सद्यः अस्माकं विश्वं मृषेश्वरवादेन व्यापृतम्। भारत-चीन-जापानान् अन्यानि च कानिचन लघुराष्ट्रानि विहाय न कुत्रापि ईश्वरस्य अनन्तत्वं अङ्गीक्रियते। तत्रापि चीनाः आधिकारिकरूपेण साम्यवादिनः, किन्तु तैः अपि तेषां पारम्परिक-पैतृकसम्पत्ति-रक्षणे काले काले प्रवृत्तिः कृता। जापानीयाः अपि तेषां वंशसमानतया बद्धाः।

अतः, निष्कर्षः एवम्। भारतं जगतः एकमात्रं मतमतान्तरसमूहयुतं राष्ट्रं यत्र परब्रह्मणः अनन्तत्वं न केवलं प्रतिपादितम् अपितु दैनन्दिनजीवने कोटिशः जनैः जीव्यमानं सत्यम् अपि। कुत्र अन्यत्र ईदृशम् उल्लासपूर्णं समाजं द्रष्टुं शक्नुमः येभ्यः परमेश्वरस्य अनन्तरूपाणि सुसामान्यानि? दुर्दैववशात्, दुःखेन वदामि, तादृशः कोऽपि देशः अद्य जगति न विद्यते। भारतम् एकमेव। इदं तथ्यं महत्त्वपूर्णं, मन्ये भारतस्य महाख्यानस्य भागभूतं च।

अन्याप्येका सङ्कल्पना भारतीय-चिन्तने आ बहोः कालात् दृढा अस्ति। मन्यते यत्, आसीत् सः कालः, अद्यतनस्य कालस्य विपरीतः, यदा भारतं सम्पूर्णस्य जगतः विवेक-दीपः एव आसीत्। अस्माकं पूर्वजैः अपार-समृद्धेः कथाः कथिताः। अत्युकृष्टैः कला-शिल्पैः अस्माकं भूमिः सुसम्पन्ना। अनुपमवैभवशालिनः साहित्यकृतयः अस्माकं कविभिः रचिताः। एषा भूमिः नैकानां प्राज्ञानां जन्मभूः आसीत्, ये अन्यदेशेषु प्रव्रज्य आविश्वम् अत्रत्यं ज्ञानं प्रतिपादितवन्तः।

काः विदेशीयाः प्राज्ञाः विस्तीर्णान् भूभागान् लङ्घितवन्तः, भारतस्य पुण्यभूमौ पदं स्थापयितुम्, अत्रत्य-पुण्यसरितासु पाण्डित्यस्य उत्सम् आस्वादयितुम्। 'विश्वगुरुः' इति ख्याताः आस्म। अस्मिन् शब्दे अस्माकं हृद्याः भावनाः निहिताः, याः अस्माकं चेतनासु नैव अपसृताः।

एकः प्रश्नः स्थानेऽस्मिन् उत्तरणीयः। यदि भविष्यति कदापि पुनरपि 'विश्वगुरुः' भविष्यामः, किं वा वयं लोकं पाठयामः? कानि तानि प्रकरणानि यानि लोकेषु अज्ञातानि? इतिहासः वदति यत् अस्माकं ज्ञानपरम्परया वयं विश्वं प्रेरयन्तः स्मः। अतः विश्वगुरु इति किं तत् दर्शनं यत् वयं लोकं पाठयामः? यथा पूर्वोक्तम्, अस्ति किञ्चित् अत्यन्तं विशिष्टं यत् सर्वथा पाठ्यम्। यत् भारतीयाः प्रतिदिनम् अनुभवन्ति दैनन्दिनम् आचरन्ति च। ईश्वरस्य अनन्तत्वम्। सामान्यभाषया – अनेकेश्वरत्वम्।

एताः अमूर्तकल्पनाः अस्माभिः चर्चिताः। अत्र एकस्य महत्त्वपूर्णस्य प्रश्नस्य सपदि उत्तरम् आवश्यकम्। वयं के? राष्ट्ररूपेण वयं कदा उद्भूताः? ईदृशाः प्रश्नाः क्लिष्टाः किन्तु मम सुकृतात् एते ज्ञानिभिः पूर्वमेव उत्तरिताः, मम जन्मनः अपि पूर्वम्। तेषामेव निर्मिते मार्गे विनीतोऽहं चलामि, यः देवैः तेषु निहितया ज्ञानप्रभया उज्ज्वलः।

विषयभङ्गम् अकृत्वा, मम पूर्वजानाम् अतुलनीये ज्ञाने विश्वासं कृत्वा, साभिमानं उद्घोषामि 'अहं हिन्दुः' इति। यत् वयं हिन्दवः, हिन्दुः इत्येव अस्माकं परिचयः। किन्तु, हिन्दुः इति महद्दीपः इव। अस्माभिः तु लक्ष्यदीपः अभिलक्ष्यते। एतत् अपि कष्टं सौभाग्येन पूर्वमेव निराकृतम्। वयं हिन्दवः। वयं सम्राज्ञः भरतस्य वंशजाः यस्य नाम्ना अयं भारतदेशः अलङ्कृतः। वयं भरतस्य वंशजाः प्रजाः च। अयं, प्रियवाचकाः, अस्ति लक्ष्यदीपः।

अतः मम मतानुसारम् अस्माकं भारतीयानां महाख्यानस्य त्रयः भागाः। प्रथमं नाम भारतमेव ईश्वरस्य अनन्तत्वदर्शनस्य परमसंरक्षकम्। द्वितीयं नाम विश्वगुरुत्वेन अस्माभिः ईश्वरस्य अनन्तत्वं लोके पाठनीयम्। तृतीयं नाम वयं सम्राज्ञः भरतस्य वंशजाः प्रजाः च।

अतः त्रयाणां साररूपेण अस्मद्देशस्य महाख्यानम् एवं निर्दिश्यते – वयं भरतस्य वंशजाः प्रजाः येषां हस्ते ईश्वरस्य अनन्तत्वदर्शनस्य अस्तित्वं निहितम्। अपि च अनन्तस्य ज्ञानं नाम अस्माभिः विश्वाय दीयमानं किञ्चन अद्भुतम् उपायनम् एव।

प्राचीनरोमकाः गताः तेषां तेजस्विनः देवताः शतकेषु न पूजिताः। प्राचीनग्रीकाः गताः तेषां देवताभ्यः बलिं दातुं नाममात्राः अवशिष्टाः। प्राचीनमिस्रस्य अपि सैव स्थितिः। किन्तु वयं हिन्दवः अद्यापि अत्रैव स्मः। अस्माकं देवाः अस्मान् नात्यजन् न वा अस्माभिः अस्माकं देवाः त्यक्ताः।

एवं प्रकारेण मया भारतस्य महाख्यानकविषये मम मतं विशदीकृतम्। किन्तु इदम् आख्यानं विवरितुं कश्चन सरलः शब्दः अपेक्ष्यते। प्रतिवारं महाख्यानं जिज्ञासवे विवरितुं वाक्यद्वयस्य प्रयोगः न शोभते। एकः एव शब्दः, अहं मन्ये, यः अस्माकं महाख्यानं सम्यक्तया विवृणोति। सः शब्दः अस्माकं संस्कृतेः निदर्शकः। अतः पूर्णतया सयुक्तिकम् एव यदि एषः शब्दः अस्माकं महाख्यानं प्रतिपादयेत्।

वयं सर्वे तं शब्दं जानीमः। सः निसर्गनियमानां बोधकः। सः ब्रह्माण्डस्य ब्रह्माण्डात् परस्य च द्योतकः। सः अस्माकं संस्कृतिम् अवबोधयति। सः अस्माकं देवतानां प्रति प्रीतिं, भक्तिम् अनुरागं च व्याख्याति। सः पितृभिः अपत्य-कल्याणार्थं कृतं त्यागं प्रदर्शयति। सः महत्सु अपि विपत्सु अस्माकं पूर्वजैः प्रदर्शितं शौर्यम् अवगमयति। सः एकः शब्दः अस्माकं युगानुयुगं संवर्धितं सम्पूर्णं दर्शनं सम्पुटीकरोति। सः शब्दः अस्ति 'धर्मः'।

भारतस्य धर्मः एव ईश्वरस्य अनन्तत्वदर्शनस्य मृषेश्वरवादान्धःकारात् रक्षणम्। एतदस्माकं दैवदत्तं कर्त्तव्यम्। एतदेव कर्त्तव्यम् अस्माकम् अस्तित्वस्य हेतुः।

अनुवादिका – याजुषी 
पाठयेम संस्कृतं जगति सर्वमानवान्।